केशप्रचुरलोकस्य पर्यस्कारि विकासिना ।
शेखरेणेव युद्धस्य शिरः कुसुमलक्ष्मणा ॥

मल्लिनाथः केशेति ॥ विकासिना विविधमार्गचारिणा, विकस्वरेण च कुसुमलक्ष्मणा पुष्पकेतुना प्रद्युम्नेन, अन्यत्र कुसुमचिह्नेन । तन्मयेनेत्यर्थः । केशवत्प्रचुराः प्रभूता लोका जना यस्मिंस्तस्य युद्धस्य शिरोऽग्रभूमिः, अन्यत्र केशैः प्रचुरस्य केशाढ्यस्य लोकस्य जनस्य शिरः मूर्धा शेखरेणापीडेनेव । शिखामाल्येनेवेत्यर्थः । `शिखास्वापीडशेखरौ` इत्यमरः । पर्यस्कारि परिष्कृतम् । भूषितमित्यर्थः । परिपूर्वात्करोतेः कर्मणि लिद `संपर्युपेभ्यः करोती भूषणे` सुडागमः `अडभ्यासव्यवायेऽपि` (वा०) इति नियमात् `परिनिविभ्यः-` (अष्टाध्यायी ८.३.७० ) इत्यादिना षत्वे `सिवादीनां वाड्व्यवायेऽपि` (अष्टाध्यायी ८.३.७१ ) इति विकल्पः । उपमा
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
के प्र चु लो स्य
र्य स्का रि वि का सि ना
शे रे णे यु द्ध स्य
शि रः कु सु क्ष्म णा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.