Loading data... On slow networks this could take a few minutes.
100%

सोढुं तस्य द्विषो नालमवयोधरवा रणम् ।
ऊर्णुनाव यशश्च द्यामपयोधरवारणम् ॥

मल्लिनाथः सोढुमिति ॥ अपगता भयान्निवृत्ता योधानां रवाः सिंहनादा येषां ते अपयोधरवा द्विषः शत्रवः तस्य कार्ष्णेः रणं सोढुं नालमशक्ताः । अत एव यशश्च अविद्यमानं पयोधराणां वारणं मेघप्रतिघातो यस्य तत् अपयोधरवारणं सत् द्यामूर्णनाव । मेघमण्डलं व्यतिलङ्घय स्वर्गमाच्छादयामासेत्यर्थः । ऊर्णोतेर्लिट् । `अजा&#३२; देर्द्वितीयस्य` (अष्टाध्यायी ६.१.२ ) इति द्वितीयस्याचो द्विर्भावः । नुवद्धावादाम्प्रतिषेधः । यमकवाक्यार्थहेतुककाव्यलिङ्गयोः संसृष्टिः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
सो ढुं स्य द्वि षो ना
यो वा णम्
र्णु ना श्च द्या
यो वा णम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.