Loading data... On slow networks this could take a few minutes.
100%

सुगन्धयद्दिशः शुभ्रमम्लानि कुसुमं दिवः ।
भूरि तत्रापतत्तस्मादुत्पपात दिवं यशः ॥

मल्लिनाथः सुगन्धयदिति ॥ दिशः सुगन्धयत् सुगन्धाः कुर्वत् । सुगन्धात् `तत्करोति-` (ग०) इति ण्यन्ताल्लटः शत्रादेशः । शुभ्रं धवलं अम्लानि म्लानिरहितं भूरि प्रभूतं कुसुमं दिवोऽन्तरिक्षात्तत्र प्रद्युम्ने अपतत् । तस्मात्प्रद्युम्नाद्यशः पूर्वोक्तगुणयुक्तं दिवमन्तरिक्षं प्रति उत्पपात । अत्र द्युप्रद्युम्नयोः कुसुमयशोभ्यामन्योन्योपस्कारजननादन्योन्यालंकारः । `परस्परं क्रियाजननेऽन्योन्यम्` इति लक्षणात्
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
सु न्ध द्दि शः शु भ्र
म्ला नि कु सु मं दि वः
भू रि त्रा त्त स्मा
दु त्प पा दि वं शः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.