Loading data... On slow networks this could take a few minutes.
100%

तस्यावदानैः समरे सहसा रोमहर्षिभिः ।
सुरैरशंसि व्योमस्थैः सह सारो महर्षिभिः ॥

मल्लिनाथः तस्येति ॥ समरे तस्य प्रद्युम्नस्यावदानैरत्युग्रकर्मभिः करणैः सहसा सद्यः रोमहर्षिभिः रोमाञ्चवद्भिः व्योमस्थैः सुरैः महर्षिभिः सह साधू सारो बलमशंसि शंसितम्
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
स्या दा नैः रे
सा रो र्षि भिः
सु रै शं सि व्यो स्थैः
सा रो र्षि भिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.