निपीड्य तरसा तेन मुक्ताः काममनास्थया ।
उपाययुर्विलक्षत्वं विद्विषो न शिलीमुखाः ॥

मल्लिनाथः निपीड्येति ॥ तेन प्रद्युम्नेन तरसा बलेन कामं निपीड्य अनास्थयानादरेण मुक्ताः । `आर्ता न परिहन्तव्याः` इति निषेधेनावध्या इति जीवन्तो मुक्ता इत्यर्थः। अन्यत्र क्षिप्ताः विद्विषो विलक्षत्वं सत्रपत्वमाययुः । `विलक्षस्तु त्रपान्विते` इत्यमरः । शिलीमुखा बाणास्तु विलक्षत्वं लक्षभ्रष्टत्वं नाययुः । अत्र द्वयोरपि विलक्षणत्वयोरभेदाध्यवसायादयं व्यतिरेको विद्विषां शिलीमुखानां च प्रकृतत्वात्तुल्ययोगितौपम्याश्रित इति संकरः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
नि पी ड्य सा ते
मु क्ताः का ना स्थ या
पा यु र्वि क्ष त्वं
वि द्वि षो शि ली मु खाः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.