दूरादेव चमूर्भल्लैः कुमारो हन्ति स स्म याः ।
न पुनः सांयुगीं ताः स्म कुमारो हन्ति सस्मयाः ॥

मल्लिनाथः दूरादिति ॥ स कुमारः प्रद्युम्नः सस्मयाः सगर्वाः याश्चमूर्दूरादेव भल्लैर्बाणविशेषैर्हन्ति स्म जघान ताश्वम्वः पुनर्भूयः संयुगस्येमां सांयुगी कुं पृथ्वीं । रणभुवमित्यर्थः । `गोत्रा कुः पृथिवी पृथ्वी` इत्यमरः । न आरोहन्ति स्म नारूढाः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
दू रा दे मू र्भ ल्लैः
कु मा रो न्ति स्म याः
पु नः सां यु गीं ताः स्म
कु मा रो न्ति स्म याः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.