Loading data... On slow networks this could take a few minutes.
100%

ओजो महौजाः कृत्वाधस्तत्क्षणादुत्तमौजसः ।
कुर्वन्नाजावमुख्यत्वमनमन्नाम मुख्यताम् ॥

मल्लिनाथः ओज इति ॥ महौजा महाबलः प्रद्युम्न उत्तमौजसो नाम राज्ञः ओजस्तरक्षणादेवाधः कृत्वाभिभूय आजौ युद्धे अमुख्यत्वमप्रधानत्वं कुर्वन्, अथवा अमुख्यत्वममुख्यार्थत्वं तन्नाम्नः कुर्वन् नाम निजं प्रद्युम्ननामधेयं मुख्यतां प्रधानतां प्रसिद्धार्थतां चानयत् । प्रकृष्टं द्युम्नं बलं यस्येति प्रद्युम्न इति स्वामी
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
जो हौ जाः कृ त्वा
स्त त्क्ष णा दु त्त मौ सः
कु र्व न्ना जा मु ख्य त्व
न्ना मु ख्य ताम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.