याबभार कृतानेकमाया सेना ससारताम् ।
धनुः स कर्षन्रहितमायासेनाससार ताम् ॥

मल्लिनाथः येति ॥ या सेना कृतानेकमाया कृतबहुकपटा सती ससारतां सारवत्तां बभार तां सेनां स कार्ष्णिः धनुः कर्षन् । धनुषा विध्यन्नित्यर्थः । आयासेन रहितमनायासं यथा तथा आससार । अभियुक्तवानित्यर्थः । बाणं भङ्क्त्वा तत्सेनां बभञ्जेत्यर्थः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
या भा कृ ता ने
मा या से ना सा ताम्
नुः र्ष न्र हि
मा या से ना सा ताम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.