कृतस्य सर्वक्षितिपैर्विजयाशंसया पुरः ।
अनेकस्य चकारासौ बाणैर्बाणस्य खण्डनम् ॥

मल्लिनाथः कृतस्येति ॥ असौ कार्ष्णिः सर्वक्षितिपैर्विजयाशंसया विजयाकाङ्क्षया पुरोऽग्रे कृतस्य नियुक्तस्य प्रयुक्तस्य वा अनेकस्यानेकाकिनः । ससहायस्येत्यर्थः । अन्यत्रानेकस्य बहुसंख्यस्य बाणस्य बाणासुरस्य शरजातस्य च बाणैः खण्डनं छेदं चकार । अत्र बाणयोर्द्वयोरपि प्रकृतत्वात्केवलप्रकृतयोः श्लेषः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
कृ स्य र्व क्षि ति पै
र्वि या शं या पु रः
ने स्य का रा सौ
बा णै र्बा स्य ण्ड नम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.