Loading data... On slow networks this could take a few minutes.
100%

प्रप्य भीममसौ जन्यं सौजन्यं दधदानते ।
विध्यन्मुमोच न रिपूनरिपूगान्तकः शरैः ॥

मल्लिनाथः प्राप्येति ॥ अरिपूगानां शत्रुसङ्घानामन्तकः अरिपूगान्तकोऽसौ कार्ष्णिः भीमं भयंकरं जन्यं युद्धं प्राप्य । `युद्धमायोधनं जन्यम्` इत्यमरः । आनते नम्रे सौजन्यं सौहार्दं दधत् न तु विध्यन् । `न क्लीबं न कृताञ्जलिम्` (मनु० ७।९१) इति निषेधादिति भावः । रिपून्प्रतिपक्षान् शरैर्विध्यन्प्रहरन् न मुमोच । न ररक्षेत्यर्थः । संदंशयमकभेदः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
प्र प्य भी सौ न्यं
सौ न्यं दा ते
वि ध्य न्मु मो रि पू
रि पू गा न्त कः रैः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.