नखांशुमञ्जरीकीर्णमसौतरुरिवोच्चकैः ।
बभौ विभ्रमद्धनुःशाखामधिरूढशिलीमुखाम् ॥

मल्लिनाथः नखेति ॥ नखांशवो मञ्जर्य इव ताभिः कीर्णां व्याप्ताम् । अधिरूढाः शिलीमुखा बाणाः, अलयश्च यस्यां ताम् । `अलिबाणौ शिलीमुखौ` इत्यमरः । धनु:शाखेव तां बिभ्रदसौ कार्ष्णिरुच्चकैरुन्नतस्तरुरिव बभौ । तरुरिवेति लिङ्गात्सर्वत्रोपमितसमासः । शिलीमुखेति श्लिष्टविशेषणेयमुपमा
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
खां शु ञ्ज री की र्ण
सौ रु रि वो च्च कैः
भौ वि भ्र द्ध नुः शा
खा धि रू शि ली मु खाम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.