दधानैर्घनसादृश्यं लसदायसदंशनैः ।
तत्र काञ्चनसच्छाया ससृजे तैः शराशनिः ॥

मल्लिनाथः दधानैरिति ॥ लसन्ति आयसान्ययोमयानि दंशनानि वर्माणि येषां तैः । `तनुत्रं वर्म दंशनम्` इत्यमरः । अत एव घनसादृश्यं कार्पोन्मेघसाम्यं दधानैस्तैः सैनिकैः तत्र कार्ष्णै काञ्चनसच्छाया सुवर्णवर्णा शर एवाशनिः विद्युत्&#३२; ससृजे उत्सृष्टा । उपमारूपकयोः संसृष्टिः । ओष्ठ्यवर्णविरहान्निरौष्ठ्यं चित्रभेदः शब्दालंकारः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
धा नै र्घ सा दृ श्यं
दा दं नैः
त्र का ञ्च च्छा या
सृ जे तैः रा निः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.