Loading data... On slow networks this could take a few minutes.
100%

सदैव संपन्नवपू रणेषु
स दैवसंपन्नवपूरणेषु ।
महो दधेऽस्तारि महानितान्तं
महोदधेस्तारिमहा नितान्तम् ॥

मल्लिनाथः सदेति ॥ सदैव सर्वदैव संपन्नं सर्वलक्षणसमग्रं वपुर्यस्य स संपन्नवपुः । नित्यपरिपूर्णमूर्तिः । संहितायां `ट्रलोपे पूर्वस्य दीर्घोऽणः` (अष्टाध्यायी ६.३.१११ ) । अस्तं निरस्तमरीणां महस्तेजो येनासौ अस्तारिमहाः महानधिकः स हरिः दैवसंपत् भाग्यसंपत्तिः सैव नवं पूरणं प्रत्ययसाधनं येषां तेषु दैवसंपन्नवपूरणेषु दैवसहायेषु रणेषु महोदधेर्महार्णवस्य इतान्तं प्राप्तपारं समुद्रपारगामि नितान्तं स्तारि विस्तीर्ण महस्तेनो दधे धारयामास । अर्धाभ्यासलक्षणसमुद्यमकभेदः । `अर्धाभ्यासः समुद्गः स्यादस्य भेदास्त्रयो मताः` इत्युक्तं दण्डिना । उपेन्द्रवज्रा वृत्तम्
छन्दः उपेन्द्रवज्रा [११: जतजगग]
छन्दोविश्लेषणम्
१० ११
दै सं न्न पू णे षु
दै सं न्न पू णे षु
हो धे ऽस्ता रि हा नि ता न्तं
हो धे स्ता रि हा नि ता न्तम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.