इष्टं कृत्वार्थं पत्रिणः शार्ङ्गपाणे-
रेत्याधोमुख्यं प्रविशन्भूमिमाशु ।
शुद्धया युक्तानां वैरिवर्गस्य मध्ये
भर्त्रा क्षिप्तानामेतदेवानुरूपम् ॥

मल्लिनाथः इष्टमिति ॥ शार्ङ्गं पाणौ यस्य शार्ङ्गपाणेः कृष्णस्य । `प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः` (वा०) इति पाणेः परनिपातः । पत्रिणो बाणाः इष्टमर्थ शत्रुवधात्मकं कृत्वा आधोमुख्यमधोमुखत्वमेत्य प्राप्य आशु भूमिमाविशन् शुद्ध्या लोहशुद्ध्या पवित्रतया च युक्तानां तथापि भर्ना स्वामिना वैरिवर्गस्य मध्ये क्षिप्तानां पातितानाम्, एतदेव आधोमुख्येन क्वचिन्निलयनमेवानुरूपमुचितम् । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः । जागतं वैश्वदेवीवृत्तम् । `पञ्चाश्वैश्छिन्ना वैश्वदेवी ममौ यौ` इति लक्षणात्
छन्दः वैश्वदेवी [१२: ममयय]
छन्दोविश्लेषणम्
१० ११ १२ १३
ष्टं कृ त्वा र्थं त्रि णः शा र्ङ्ग पा णे
रे त्या धो मु ख्यं प्र वि न्भू मि मा शु
शु द्ध या यु क्ता नां वै रि र्ग स्य ध्ये
र्त्रा क्षि प्ता ना मे दे वा नु रू पम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.