द्विधा त्रिधा चतुर्धा च तमेकमपि शत्रवः ।
पश्यन्तः स्पर्धया सद्यः स्वयं पञ्चत्वमाययुः ॥

मल्लिनाथः द्विधेति ॥ शत्रवः एकमपि तं हरिं द्विधा द्वित्वेन त्रिधा त्रित्वेन चतुर्धा चतुष्ट्वेन पश्यन्तः । भयात्तथा भ्राम्यन्त इत्यर्थः । स्पर्धया मत्सरेण सद्यः स्वयं पञ्चत्वं पञ्चधाभावं मरणं चाययुः । मत्सरिणस्तदधिकमाचरन्तीति भावः । `स्यात्पतसंभावनमुत्प्रेक्षेति&#३२; ञ्चता कालधर्मो दिष्टान्तः प्रलयोऽत्ययः । अन्तो नाशो द्वयोर्मुत्युमरणं निधनोऽस्त्रियाम् ॥` इत्यमरः । पाञ्चभौतिकस्य शरीरस्य पञ्चधाभावः पञ्चता । अत्र स्पर्धेति हेतोरुप्रेक्षणाद्धेतूप्रेक्षा । सा च व्यञ्जकाप्रयोगाद्गम्या । स्पर्धयेवेत्यर्थः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
द्वि धा त्रि धा तु र्धा
मे पि त्र वः
श्य न्तः स्प र्ध या द्यः
स्व यं ञ्च त्व मा युः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.