मल्लिनाथः
सदेति ॥ सदा मदो यस्य स सदामदः नित्यमत्तस्तं बलं बलभद्रं प्रीणातीति सदामदबलप्रायः । परत्वात्कर्मण्यण्प्रत्ययः । समुद्धृता रसा भूर्येन स समुद्धृतरसः । प्रतीताः प्रसिद्धा विक्रमाः पादन्यासा यस्य सः । त्रिविक्रम इत्यर्थः । श्रीमान् रमापतिः हरिः कृष्णोऽपरोऽन्यो हरिरिन्द्र इव बभौ । सोऽपि सतामामदो दुःखदो यो बलासुरस्तस्य प्रायो नाशस्तं करोतीति सदामदबलप्रायः । `तत्करोति-` (ग०) इति ण्यन्तात्पचाद्यच् । समुद्धृतरसः अमृतपानेन सम्यगपहृतविषः । `शृङ्गारादौ विषे वीर्ये द्रवे रागे गुणे रसः` इत्यमरः । प्रतीतविक्रमः प्रसिद्धपराक्रमः श्रीमान्स्वाराज्यलक्ष्मीयुक्तः । तथा परोऽन्यो हरिः सूर्य बभौ । सोऽपि आमं रोगं द्यति खण्डयतीत्यामदः । बलं पृणातीति बलप्रः । मूलविभुजादित्वात्कः । सतां भक्तनामामदो बलपश्च अय उदयो यस्य स सदामदबलप्रायः । स्वोदयेन सतामारोग्यबलकारीत्यर्थः । `उद्यन्नद्य-` (ऋ० सं०) इत्यादिश्रुतेरिति भावः । समुद्धृतरसः धर्मकालसंशोषितसलिलः । प्रतीतविक्रमः प्रसिद्धखगगतिः । `यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु । शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु ॥` इत्यमरः । तदेवमुपमानयोरुपमेये चार्थत्रयवचनादर्थत्रयवाच्येषु चित्रभेदः । एतावदेव कवेर्विवक्षितमतोऽन्यत्सुवाच्यं चोपेक्ष्यमेव । अत्रापरो हरिरिवेत्यपरशब्दप्रयोगादुव्प्रेक्षेयं नोपमा । अपरस्येन्द्रस्यार्कस्य वाऽप्रसिद्धेः प्रसिद्धसादृश्यवर्णनमुपमा । प्रसिद्धताद्रूप्यारोपे रूपकम् । प्रसिद्धतादूप्यभावनमुत्प्रेक्षा । अत एव लक्षयन्ति । अप्रकृतगुणक्रियाभिसंधानादप्रकृतत्वेन प्रक। तस्मादपरशब्देन प्रकृतस्याप्रकृतत्वाध्यवसायप्रतीतेरिवशब्देन तस्य साध्यत्वप्रतीतेरुत्प्रेक्षैवेति सर्वस्वकारः । तस्मादिवशब्दमात्र प्रयोग एवोपमा । अपरशब्दमात्रप्रयोगेऽतिशयोक्तिः । उभयोः प्रयोगे तूप्रेक्षैवेति विवेकः । अत एवात्रानेकार्थवर्णनव्यवसायिभिरपरशब्दस्यान्यार्थताव्यतिरेकेणार्थान्तरकल्पनापि नालंकारिकाणां पन्थाः । श्लेषश्चात्रोत्प्रेक्षाबीजभूतसाधर्म्यनिर्वाहमात्रोपक्षीणतया तदङ्गमिति संकर इत्यलमतिप्रसक्त्या
छन्दः
अनुष्टुप् [८]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ |
|---|---|---|---|---|---|---|---|
| स | दा | म | द | ब | ल | प्रा | |
| यः | स | मु | द्धृ | र | सो | ब | भौ |
| प्र | ती | त | वि | क्र | मः | श्री | म |
| न्हा | रि | र्ह | रि | रि | वा | प | रः |
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.