मल्लिनाथः
प्लुतेति ॥ स हरिः प्लुताः उक्षिताः इभकुम्भाः उरसि जाता उरसिजा इभकुम्भा इवोरसिजाश्च यैस्तैः हृदयक्षतिभिर्वक्षःप्रहारैः मनोभङ्गैश्च विषादापादकैः जन्म येषां तैः । `हृदयं वक्षसि स्वान्ते` इति विश्वः । द्विषां तद्योषितां चास्रै शोणितैः, अश्रुभिश्च । `अस्रमश्रुणि शोणिते` इति विश्वः । नदीः प्रावर्तयत्प्रावाहयत् । अरिवधेन तन्नारीररोदयदित्यर्थः । अत्र द्वयानामप्यस्राणां प्रकृतत्वात्प्रकृतश्लेषः । तैरर्द्विषां तद्योषितां यथासंख्यबन्धाद्यथासंख्यालंकारः । तदुपजीवनेन&#३२; द्विषां तद्योषितां चास्त्रैः शोणितैः श्लेषमूलाभेदातिशयोक्तिमहिम्ना अस्ररूपतुल्यधर्मयोगित्वात्तुल्ययोगितेत्यङ्गाङ्गिभावेनैषां संकरः
छन्दः
अनुष्टुप् [८]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ |
|---|---|---|---|---|---|---|---|
| प्लु | ते | भ | कु | म्भो | र | सि | जै |
| र्हृ | द | य | क्ष | ति | ज | न्म | भिः |
| प्रा | व | र्त | य | न्न | दी | र | स्रै |
| र्द्वि | षां | त | द्यो | षि | तां | च | सः |
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.