समं समन्ततो राज्ञामापतन्तीरनीकिनीः ।
कार्ष्णिः प्रत्यग्रहीदेकः सारस्वानिव निम्नगाः ॥

मल्लिनाथः सममिति ॥ समं युगपत्समन्तत आपतन्तीरागच्छन्ती राज्ञां चैद्यपक्षाणामनीकिनीः सेनाः । कृष्णस्यापत्यं पुमान् कार्ष्णिः प्रद्युम्नः `अत इञ्` (अष्टाध्यायी ४.१.९५ ) । निम्नगा नदीः सरस्वान्समुद्र इवैकोऽसहायः प्रत्यग्रहीत्प्रत्यवरुरोध
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
मं न्त तो रा ज्ञा
मा न्ती नी कि नीः
का र्ष्णिः प्र त्य ग्र ही दे कः
सा स्वा नि नि म्न गाः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.