दारी दरदरिद्रोऽरिदारूदारोऽद्रिदूरदः ।
दूरादरौद्राददरद्रोदोरुद्दारुरादरी ॥

मल्लिनाथः दारीति ॥ दारी बहुदारवान् । भूमार्थे मत्वर्थीयः । दरेण भयेन दरिद्रो निर्भीकः । `दरोऽस्त्रियां भये श्वभ्रे` इत्यमरः । उदारो महान् , दाता वा । `उदारो दातृमहतोः` इत्यमरः । अद्रिवत् दुःखेन रद्यते दूरदो दुर्भेदोऽद्रिदूरदः । `रद विलेखने` खल् प्रत्ययः । अरौद्रः साधूनां सौम्यः । रोदसी रुणद्धीति रोदोरुत् विश्वव्यापी । रुधेः क्विप् । ददातीति दारुर्दाता । ददातेरौणादिको रुप्रत्ययः । आदरोऽस्यास्तीत्यादरी सन्मार्गादरवान् स हरिः अरिरेव दारु काष्ठमरिदारु दूरादेव अददरत् दारयति स्म । दारयतेर्णो चङि `अत्स्मृदृत्वरप्रथम्रदस्तृस्पशाम्` (अष्टाध्यायी ७.४.९५ ) इत्यभ्यासस्यात्त्वम् । अरिदार्विति रूपकमर्थालंकारो द्व्यक्षरानुप्रासश्च
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
दा री रि द्रो ऽरि
दा रू दा रो ऽद्रि दू दः
दू रा रौ द्रा
द्रो दो रु द्दा रु रा री
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.