Loading data... On slow networks this could take a few minutes.
100%

विधातुमवतीर्णोऽपि लघिमानमसौ भुवः ।
अनेकमरिसंघातमकरोद्भूमिवर्धनम् ॥

मल्लिनाथः (युग्मम् ।) विधातुमिति ॥ भुवो भूमेर्लघिमानं लघुत्वं भारावतरणं विधातुमवतीर्णोऽपि भुवि जातोऽप्यसौ पूर्वोक्तगुणो भगवान् हरिः अनेकं बहुमरिसंघातं भूमिवर्धनं भूभारमकरोदिति विरोधः । मृतमकरोदित्यविरोधः । अत एव विरोधाभासोऽलंकारः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
वि धा तु ती र्णो ऽपि
घि मा सौ भु वः
ने रि सं घा
रो द्भू मि र्ध नम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.