एकेषुणा सङ्घतिथान्द्विषो भिन्दन्द्रुमानिव ।
स जन्मान्तररामस्य चक्रे सदृशमात्मनः ॥

मल्लिनाथः एकेषुणेति ॥ स हरिरेकेषुणा एकेनैव शरेण सङ्घानां पूरणान्सङ्घतिथान् । सङ्घशः स्थितानित्यर्थः । `बहुपूगगणसङ्घस्य तिथुक्` (अष्टाध्यायी ५.२.५२ ) इति तिथुगागमादेव ज्ञापकादसंख्यात्वेऽपि सङ्घाडुट् प्रत्ययः । द्विषः शत्रून्द्रुमानिवेत्युपमा । भिन्दन्विदारयन् । जन्मान्तरे रामस्य दाशरथेरात्मनः सदृशं चक्रे । एकशरेणानेकारिद्रुमभेदस्तु जन्मान्तरभावनाय जात इति भावः । `बिभेद च पुनस्तालान्सप्तैकेन महेषुणा` इति रामायणे
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
के षु णा ङ्घ ति था
न्द्वि षो भि न्द न्द्रु मा नि
न्मा न्त रा स्य
क्रे दृ मा त्म नः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.