क्रूरारिकारि कीरेककारकः कारिकाकरः ।
कोरकाकारकरकः करीरः कर्करोर्ऽकरुक् ॥

मल्लिनाथः क्रूरेति ॥ क्रूरानरीन् किरति विक्षिपति इति क्रूरारिकारी । किरतेर्णिनिप्रत्ययः । को मेरेककारकः एककर्ता । करोतेण्वुल । कारिका यातनाः करोति दुष्टानामिति कारिकाकरः । `कारिका यातनावृत्त्योः` इत्यमरः । `कृञो हेतु-` (अष्टाध्यायी ३.२.२० ) इत्यादिना ताच्छील्ये टप्रत्ययः । कारिकाः क्रियाः । धात्वर्थनिर्देशे ण्वुल् । तत्कर इति केचित् । कोरकाकारौ करौ यस्य स कोरकाकारकरकः । कमलमुकुलरमणीयपाणिरित्यर्थः । शैषिकः कप्प्रत्ययः । करिणो गजानीरयति क्षिप&#३२; तीति करीरः । कर्मण्यण् । कर्करी रणकर्कश इत्यर्थः । `कर्करो दर्पणे दृढे` इति शाश्वतः । अर्कस्येव रुग्यस्य सोऽर्करुगित्युपमा । द्व्यक्षरानुप्रासः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
क्रू रा रि का रि की रे
का कः का रि का रः
को का का कः
री रः र्क रो र्ऽक रुक्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.