Loading data... On slow networks this could take a few minutes.
100%

उद्धतान्द्विषतस्तस्य निध्नतो द्वितयं ययुः ।
पानार्थे रुधिरं धातौ रक्षार्थे भुवनं शराः ॥

मल्लिनाथः उद्धतानिति ॥ उद्धतान् दृप्तान् द्विषतः शत्रून्निघ्नतो हिंसतः । `जासिनिग्रहण-` (अष्टाध्यायी २.३.५६ ) ब्इति सूत्रे निप्रेतिसंघातविपर्यस्तव्यस्तग्रहणोपदेशानिहन्तेरशेषकर्मणि द्वितीयैव । तस्य हरेः शराः । पानार्थे धातौ `पा पाने` इति धातौ सति रुधिरं, रक्षार्थे धातौ `पा रक्षणे` इति भुवनं जगच्चेति द्वितयं ययुः । रुधिरमपिबन् भुवनमरक्षश्चेति श्लेषार्थः । अत्र पानयोरभेदाध्यवसायेन रुधिरभुवनयोस्तुल्ययोगितालंकारः । तत्र `पानार्थे` इत्यादिवाक्यस्य शत्रुवधेन भुवनमरक्षनिति सूक्ष्मार्थगर्भत्वात्सौक्ष्म्यं नाम गुणः । `अतः संकल्परूपत्वं शब्दानां सौम्यमुच्यते` इति लक्षणात्
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
द्ध ता न्द्वि स्त स्य
नि ध्न तो द्वि यं युः
पा ना र्थे रु धि रं धा तौ
क्षा र्थे भु नं राः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.