राजराजी रुरोजाजेरजिरेऽजोऽजरोऽरजाः ।
रेजारिजूरजोर्जार्जी रराजर्जुरजर्जरः ॥

मल्लिनाथः राजेति ॥ न जायत इत्यजोऽनादिः । `अन्येष्वपि दृश्यते` (अष्टाध्यायी ३.२.१०१ ) इति जनेर्डप्रत्ययः । न जीर्यते इत्यजरोऽनन्तः । पचाद्यच् । नास्ति रजो यस्येत्यरजा रजोगुणरहितः । रेजन्तीति रेजास्तेजिष्ठाः । रेज दीप्तौ` पचाद्यच् । ते च ते अरयश्च तेषां जूरो हिंसनं तेन जातं रेजारिजूरजम् , तदूर्जं बलं अर्जयतीति रेजारिजूरजोर्जार्जी । अर्जेणिनिः । ऋजुरार्जववान् । जर्जरो न भवतीत्यजर्जरो दृढः स हरिः आजेरजिरे रणाङ्गणे राजराजी राजश्रेणीः रुरोज बभञ्ज । `रुजो भङ्गे` लिट् । अत एव रराज दिदीपे । द्व्यक्षरानुप्रासः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
रा रा जी रु रो जा जे
जि रे ऽजो ऽज रो ऽर जाः
रे जा रि जू जो र्जा र्जी
रा र्जु र्ज रः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.