मुक्तानेकशरं प्रणानहरद्भूयसां द्विषां ।
तदीयं धनुरन्यस्य न हि सेहे सजीवताम् ॥

मल्लिनाथः मुक्तेति ॥ मुक्तानेकशरं क्षिप्तबहुबाणं तस्य हरेरिदं तदीयं धनुः भूयसां&#३२; द्विषां प्राणानहरत् । तथा हि—अन्यस्य परस्य सजीवतां न सेहे । अथवा अन्यस्य धनुषः सजीवतां सज्याकत्वं न सेहे । `त्रिषु जीवति जीवः स्यान्मौर्व्यां स्त्री` इति वैजयन्ती । वाक्यार्थहेतुकं काव्यलिङ्गम्
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
मु क्ता ने रं प्र णा
द्भू सां द्वि षां
दी यं नु न्य स्य
हि से हे जी ताम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.