Loading data... On slow networks this could take a few minutes.
100%

वररोऽविवरो वैरिविवारी वारिरारवः ।
विववार वरो वैरं वीरो रविरिवौर्वरः ॥

मल्लिनाथः वरर इति ॥ वरान्रातीति वररो वरप्रदः । `रा दाने` `आतोऽनुपसर्गे कः (अष्टाध्यायी ३.२.३ ) । अविवरो निर्विवरो नीरन्ध्रः । वैरिणः शत्रून् विवारयति वैरिविवारी। वारीणि रातीति वारिरः । पूर्ववत्कः । तस्येवारवो यस्य स वारिरारवः । वरः श्रेष्टो वीरः शूरः स कृष्णः । `उर्वरा सर्वसस्याढ्यभूमौ स्याद्भूमिमात्रके` इत्यमरः । तस्यां भव और्वरः पृथ्वीभवः रविरिव वैरं वैरिणां वृन्दं विववार विवारयामास । जघानेत्यर्थः । द्व्यक्षरानुप्रासः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
रो ऽवि रो वै रि
वि वा री वा रि रा वः
वि वा रो वै रं
वी रो वि रि वौ र्व रः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.