अक्षितारासु विव्याध द्विषतः स तनुत्रिणः ।
दानेषु स्थूललक्ष्यत्वं न हि तस्य शरासने ॥

मल्लिनाथः (युग्मम् ।) अक्षीति ॥ स पूर्वोक्तगुणविशिष्टो हरिः तनुत्राणि येषां सन्तीति तनुत्रिणो वर्मिणः । `तनुत्रं वर्म दंशनम्` इत्यमरः । तान् द्विषतः शत्रून् अक्षितारासु नेत्रकनीनिकासु विव्याध प्रजहार । तथा हि—तस्य हरेः दानेषु वितरणेष्वेव स्थूललक्ष्यत्वं विपुलविषयत्वम् । `स्युर्वदान्यस्थूललक्ष्यदानशौण्डा बहुप्रदे इत्यमरः । शरासने शरक्षेपे तु न, किंतु सूक्ष्मलक्ष्यत्वमेव । अतोऽक्षितारावेधित्वमस्य युक्तमित्यर्थः । अतो वाक्यार्थहेतुकं काव्यलिङ्गम्
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
क्षि ता रा सु वि व्या
द्वि तः नु त्रि णः
दा ने षु स्थू क्ष्य त्वं
हि स्य रा ने
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.