Loading data... On slow networks this could take a few minutes.
100%

उद्यन्नादं धन्विभिर्निष्ठुराणि
स्थूलान्युच्चैर्मण्डलत्वं दधन्ति ।
आस्फाल्यन्ते कार्मुकाणि स्म कामं
हस्त्यारोहैः कुञ्जराणां शिरांसि ॥

मल्लिनाथः उद्यन्नादमिति ॥ धन्विभिर्धनुष्मद्भिः । व्रीह्यादित्वादिनिः प्रत्ययः । निष्ठुराणि कर्कशानि स्थूलानि पीवराण्युच्चैरुन्नतानि मण्डलत्वं दधन्ति वर्तुलत्वं दधानानि । एकत्राकर्षणादन्यत्र स्वभावाच्चेति भावः । कर्मणि प्रभवन्तीति `कर्मण उकञ्` (अष्टाध्यायी ५.१.१०३ ) कार्मुकाणि धनूंषि । उद्यन्नादमुज्जृम्भमाणघोषं यथा तथा काममास्फाल्यन्ते स्म पाटवपरीक्षार्थं पाणिभिरास्फालितानि । हस्तिनं रोहन्तीति हस्त्यारोहैर्निषादिभिः । कर्मण्यण् । कुञ्जराणां शिरांसि आस्फाल्यन्ते स्म । उत्साहार्थमिति भावः । अत्र कार्मुकाणां कुञ्जरशिरसां च प्रकृतानामेव निष्ठुरत्वादिविशेषणसाम्येनौपम्यावगमात्केवलप्रकृतास्पदा तुल्ययोगिता
छन्दः शालिनी [११: मततगग]
छन्दोविश्लेषणम्
१० ११
द्य न्ना दं न्वि भि र्नि ष्ठु रा णि
स्थू ला न्यु च्चै र्म ण्ड त्वं न्ति
स्फा ल्य न्ते का र्मु का णि स्म का मं
स्त्या रो हैः कु ञ्ज रा णां शि रां सि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.