Loading data... On slow networks this could take a few minutes.
100%

कुर्वाणानां साम्परायान्तरायं
भूरेणूनां मृत्युना मार्जनाय ।
सम्मार्जन्यो नूनमुद्धूयमाना
भान्ति स्मोच्चैः केतनानां पताका ॥

मल्लिनाथः कुर्वाणानामिति ॥ उच्चैरुन्नताः केतनानां ध्वजस्तम्भानां पताका वैजयन्त्यः सांपरायान्तरायं युद्धविघ्नं कुर्वाणानाम् । `अनीकं सांपरायिकम्` इत्यमरः ।&#३२; भूरेणूनां मार्जनाय प्रमार्जनार्थं मृत्युनान्तकेनोद्धूयमानाः प्रकम्प्यमानाः संमार्जन्यः शोधन्य इव भान्ति स्म । `संमार्जनी शोधनी स्यात्` इत्यमरः । नूनमित्युत्प्रेक्षा
छन्दः शालिनी [११: मततगग]
छन्दोविश्लेषणम्
१० ११
कु र्वा णा नां सा म्प रा या न्त रा यं
भू रे णू नां मृ त्यु ना मा र्ज ना
म्मा र्ज न्यो नू मु द्धू मा ना
भा न्ति स्मो च्चैः के ना नां ता का
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.