घण्डानादो निस्वनो डिण्डिमानां
ग्रैवेयाणामारवो बृंहितानि ।
आमेतीव प्रत्यवोचन्गजाना-
मुत्साहार्थं वाचमाधोरणस्य ॥

मल्लिनाथः घण्टानाद इति ॥ घण्टानादः किङ्किण्यादिघोषः डिण्डिमानां वाद्यविशेषाणां निस्वनः । ग्रीवासु भवानां अवेयाणां कण्ठशृङ्खलानां ग्रीवाभ्य एवेति ढक् प्रत्ययः । आरवः बृंहितानि बृंहणानि गजानां उत्साहार्थमाधोरणस्य हस्तिपकस्य । `आधोरणा हस्तिपकाः` इत्यमरः । `वाचं बृंहणादिशब्दं आमेति प्रत्यवोचन्निवैवमेवेत्यनु. कूलमूचिर इवेत्युत्प्रेक्षा । `आमानुगुण्ये सरणे` इत्यमरः
छन्दः शालिनी [११: मततगग]
छन्दोविश्लेषणम्
१० ११
ण्डा ना दो नि स्व नो डि ण्डि मा नां
ग्रै वे या णा मा वो बृं हि ता नि
मे ती प्र त्य वो न्ग जा ना
मु त्सा हा र्थं वा मा धो स्य
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.