संक्रीडन्ती तेजिताश्वस्य रागा-
दुद्यम्यारामग्रकायोत्थितस्य ।
रंहोभाजामक्षधूः स्यन्दनानां
हाहाकारं प्राजितुः प्रत्यनन्दत् ॥

मल्लिनाथः संक्रीडन्तीति ॥ संक्रीडन्ती संघर्षात्कूजन्ती। `समोऽकूजने च वक्तव्यम्` (वा०) इति वचनात्कूजने `क्रीडोऽनुसंपरिभ्यश्च` (१॥३।२१) इति नात्मनेपदम् । रंहोभाजां वेगभाजां स्यन्दनानां रथानामक्षस्य चकाधारकाष्टस्य धूरग्रमक्षधूः । `अक्षं रथाङ्ग आधारे` इति वैजयन्ती । `अनक्षे` इति निषेधात् `ऋक्पू:-` (अष्टाध्यायी ५.४.७४ ) इत्यादिना न समासान्तः । रागात् आरां प्रतोदमुद्यम्य तेजिता उत्साहिता अश्वा येन तस्य अग्रं चासौ कायश्च स उत्थितो यस्य तस्य । उत्थितपूर्वकायस्येत्यर्थः । आहितान्यादित्वात्साधुः । प्राजितुः सारथेः । `नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः` इत्यमरः । हाहाकारसुत्साहवर्धनार्थं हाहाशब्दम् । एवकार इत्यत्रैवग्रहणस्योपलक्षणत्वादन्यत्रापि यथादर्शनं शब्दनिर्देशात्कारप्रत्ययः । अथवा हाहाकारं हाहाकरणम् । भावे घञ् प्रत्ययः । प्रत्यनन्दत् साधु साध्वित्यन्वमोदत । किमित्युत्प्रेक्षा
छन्दः शालिनी [११: मततगग]
छन्दोविश्लेषणम्
१० ११
सं क्री न्ती ते जि ता श्व स्य रा गा
दु द्य म्या रा ग्र का यो त्थि स्य
रं हो भा जा क्ष धूः स्य न्द ना नां
हा हा का रं प्रा जि तुः प्र त्य न्दत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.