Loading data... On slow networks this could take a few minutes.
100%

क्रव्यात्पूगैः पुष्कराण्यनकानां
प्रत्याशाभिर्मेदसो दारितानि ।
आभीलानि प्राणिनः प्रत्यवस्य-
न्कालो नूनं व्यददावाननानि ॥

मल्लिनाथः क्रव्यादिति ॥ क्रव्यमदन्तीति क्रव्यादो मांसभक्षकाः कङ्कगृध्रादयः । `क्रव्ये च` (अष्टाध्यायी ३.२.६९ ) इति विट् प्रत्ययः । तेषां पूगैः कर्तृभिः मेदसो वसायाः। `मेदस्तु वपा वसा` इत्यमरः । प्रत्याशाभिस्तृष्णाभिर्दारितानि मेदस्वित्वभ्रान्त्या पाटितान्यानकानां तूर्याणां पुष्कराणि मुखानि । `पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखेजले` इत्यमरः । प्राणिनः करितुरगादीन् प्रत्यवस्यन्नभ्यवहरन् । `अभ्यवहारः प्रत्यवसनं भोजनं जग्धिः` इति हलायुधः । कालोऽन्तकः आभीलानि भयंकराणि । `आभीलं भीमकृच्छ्रयोः` इति विश्वः । आननानि व्याददौ विददार । `आङो दोऽनास्यविहरणे` (अष्टाध्यायी १.३.२० ) इत्यस्य प्रत्युदाहरणमेतत् । यानि विदारितानि पुष्कराणि तान्येवाननानि । नूनमित्युत्प्रेक्षायाम्
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
क्र व्या त्पू गैः पु ष्क रा ण्य का नां
प्र त्या शा भि र्मे सो दा रि ता नि
भी ला नि प्रा णि नः प्र त्य स्य
न्का लो नू नं व्य दा वा ना नि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.