Loading data... On slow networks this could take a few minutes.
100%

ग्लानिच्छेदि क्षुत्प्रबोधाय पीत्वा
रक्तारिष्टं शोषिताजीर्णशेषम् ।
स्वादुंकारं कालखण्डोपदंशं
क्रोष्टा डिम्बं व्यष्वणद्व्यस्वनञ्च ॥

मल्लिनाथः ग्लानीति ॥ क्रोष्टा जम्बुकः क्षुत्प्रबोधाय ग्लानिच्छेदी खेदहारी शोषितो जारितः अजीर्णशेषो येन तद्रक्तमेवारिष्टं पानविशेष इति रूपकम् । तत्पीत्वा स्वादुंकारं स्वादूकृत्य । `स्वादुमि-` (अष्टाध्यायी ३.४.२६ ) इति णमुल् । कालखण्डेन यकृता उपदंशं कालखण्डं उपदंशं कृत्वेत्यर्थः । `कालखण्डयकृती तु समे` इत्यमरः । `उपदंशस्तृतीयायाम्` (अष्टाध्यायी ३.४.४७ ) इति णमुल् । कालखण्डस्य दशनक्रियाकर्मत्वेऽपि भुजिक्रियाकरणत्वात्तृतीयोपपदतया `तृतीयाप्रभृतीन्यन्यतरस्याम्` (अष्टाध्यायी २.२.२१ ) इति विकल्पेनोपपदसमासः । डिम्बं कलेवरं व्यष्वणत् । भुक्तवानित्यर्थः । `वेश्च स्वनो भोजने` (अष्टाध्यायी ८.३.६९ ) इति षत्वम् । व्यस्वनदवादयच्चेति समुच्चयः । अभोजनार्थत्वात्षत्वं न
छन्दः शालिनी [११: मततगग]
छन्दोविश्लेषणम्
१० ११
ग्ला नि च्छे दि क्षु त्प्र बो धा पी त्वा
क्ता रि ष्टं शो षि ता जी र्ण शे षम्
स्वा दुं का रं का ण्डो दं शं
क्रो ष्टा डि म्बं व्य ष्व द्व्य स्व ञ्च
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.