Loading data... On slow networks this could take a few minutes.
100%

कीर्णा रेजे साजिभूमिः समन्ता-
दप्राणद्भिः प्राणभाजां प्रतीकैः ।
बह्वारम्भैरर्धसंयोजितैर्वा
रूपैः स्रष्टुः सृष्टिकर्मान्तशाला ॥

मल्लिनाथः कीर्णेति ॥ अप्राणद्भिरजीवद्भिः । भिन्नत्वान्निष्प्राणैरित्यर्थः । `अन प्राणने` इति धातोर्लटः शत्रादेशः । प्राणभाजां प्राणिनां प्रतीकैरवयवैः । `अङ्ग प्रतीकोऽवयवः` इत्यमरः । समन्तात्कीर्णा सा आजिभूमिः ईषदसमाप्तारम्भैरिति बह्वारम्भैः। किंचिदूनसृष्टैरित्यर्थः । `विभाषा सुपो बहुच्पुरस्तात्तु` (अष्टाध्यायी ५.३.६८ ) इति बहुप्रत्ययः । तथार्धसंयोजितैरर्धसृष्टैश्च रूपैराकारैः । `रूपं स्वरूपे सौन्दर्य आकारश्लेषयोरपि` इति विश्वः । कीर्णा स्रष्टुः धातुः सृष्टिकर्मान्तशाला वा । सृष्टिकर्मणो नियतागारमिव रेज इत्युत्प्रेक्षा
छन्दः शालिनी [११: मततगग]
छन्दोविश्लेषणम्
१० ११
की र्णा रे जे सा जि भू मिः न्ता
प्रा द्भिः प्रा भा जां प्र ती कैः
ह्वा म्भै र्ध सं यो जि तै र्वा
रू पैः स्र ष्टुः सृ ष्टि र्मा न्त शा ला
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.