नैरन्तर्यच्छिन्नदेहान्तरालं
दुर्भक्षस्य ज्वालिना वाशितेन ।
योद्धुर्बाणप्रोतमादीप्य मांसं
पाकापूर्वस्वादमादे शिवाभिः ॥

मल्लिनाथः नैरन्तर्येति ॥ नैरन्तर्येणाविच्छेदेन छिन्नं देहस्यान्तरालं यस्मिन्कर्मणि तद्यथा तथा बाणैः प्रोतं स्यूतम् अत एव दुर्भक्षस्य भक्षितुमशक्यस्य । कृच्छ्रार्थे खल्प्रत्ययः । योद्धुर्योधस्य संबन्धि मांसं ज्वालिना ज्वालावता वाशितेन रुतेन । शिवानां वाशने जिह्वा ज्वलतीति प्रसिद्धिः । आदीप्य प्रज्वाल्य । बाणदाहाय मांसपाकाय चेति भावः । अत एव पाकेनापूर्वोऽभिनवः स्वादो रुचिर्यस्य तत्तथा शिवाभिर्गोमायुभिः । `स्त्रियां शिवा भूरिमायगोमायुमृगधूर्तकाः` इत्यमरः । आदे जघसे । भक्षितमित्यर्थः । `लिट्यन्यतरस्याम्` (अष्टाध्यायी २.४.४० ) इति विकल्पाददेर्न घस्लादेशः । वाशितोत्थया जिह्वाज्वालया दग्धेषुप्रतिबन्धेन पाकरुचिरं जघस इत्यर्थः । अत्र पाकापूर्वास्वादाद्यसंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः
छन्दः शालिनी [११: मततगग]
छन्दोविश्लेषणम्
१० ११
नै न्त र्य च्छि न्न दे हा न्त रा लं
दु र्भ क्ष स्य ज्वा लि ना वा शि ते
यो द्धु र्बा प्रो मा दी प्य मां सं
पा का पू र्व स्वा मा दे शि वा भिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.