ओजोभाजां यद्रणे संस्थिताना-
मादत्तीव्रं सार्धमङ्गेन नूनम् ।
ज्वालाव्याजादुद्वमन्ती तदन्त-
स्तेजस्तारं दीप्तजिह्वा ववाशे ॥

मल्लिनाथः ओजोभाजामिति ॥ दीप्ता ज्वलन्ती जिह्वा यस्याः सा दीप्तजिह्वा शिवा । रणे संस्थितानां मृतानां ओजोभाजामोजस्विनां अङ्गेन गात्रेण साधं यत्तीव्रं तिग्मं तेज आददभक्षयत् । अदेर्लङ् `अदः सर्वेषाम्` (अष्टाध्यायी ७.३.१०० ) इत्यडागमेऽपृक्तस्य `आडजादीनाम्` (अष्टाध्यायी ६.१.७२ ) इत्यांडागमोऽङ्गस्य `आटश्च` (अष्टाध्यायी ६.१.९० ) इति वृद्धिः । तदन्तरन्तरेऽन्तरितं तेजो ज्वालाव्याजान्मुखोल्काच्छलादुद्वमन्ती तारमुचैर्ववाशे रौति स्म । `तिरश्चां वाशितं रुतम्` इत्यमरः । नूनमित्युस्प्रेक्षायाम् । अत्र व्याजशब्देन ज्वालास्वापहृवेन तेजस्त्वोत्प्रेक्षणे सापहवोत्प्रेक्षेति सर्वस्वकारः
छन्दः शालिनी [११: मततगग]
छन्दोविश्लेषणम्
१० ११
जो भा जां द्र णे सं स्थि ता ना
मा त्ती व्रं सा र्ध ङ्गे नू नम्
ज्वा ला व्या जा दु द्व न्ती न्त
स्ते स्ता रं दी प्त जि ह्वा वा शे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.