आतन्वद्भिर्दिक्षु पत्राग्रनादं
प्राप्तैदूरादाशु तीक्ष्णैर्मुखाग्रैः ।
आदौ रक्तं सैनिकानामजीवै-
र्जीवैः पश्चात्पत्रिपूगैरपायि ॥

मल्लिनाथः आतन्वद्भिरिति ॥ दिक्षु पत्राग्रनादं पक्षान्तघोषं आतन्वद्भिर्विस्तृणद्भिः दूरादाशु प्राप्तैरागतैः अजीवैरचेतनैः । पचाद्यजन्तेन नञ्समासः । पत्रिपूगैः । बाणव्रातैरित्यर्थः । तीक्ष्णैर्मुखाग्रैः करणैः सैनिकानां रक्तमपायि पीतम् । पिबतेः कर्मणि लुङ् । `आतो युक्क्रिण्कृतोः` (अष्टाध्यायी ७.३.३३ ) इति युगागमः । पश्चाजीवैश्चेतनैः पत्रिपूगैः पक्षिसङ्घैः कर्तृभिस्तीक्ष्णैः मुखाग्रैश्चपुटैः करणैरपायि । अत्रोभयेषां पत्रिणां प्रकृतत्वात्केवलप्रकृतविषयः श्लेषः
छन्दः शालिनी [११: मततगग]
छन्दोविश्लेषणम्
१० ११
न्व द्भि र्दि क्षु त्रा ग्र ना दं
प्रा प्तै दू रा दा शु ती क्ष्णै र्मु खा ग्रैः
दौ क्तं सै नि का ना जी वै
र्जी वैः श्चा त्प त्रि पू गै पा यि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.