Loading data... On slow networks this could take a few minutes.
100%

उत्क्रान्तानामामिषायोपरिष्टा-
दध्याकाशं बभ्रुमुः पत्रवाहाः ।
मूर्ताः प्राणाः नूनमद्याप्यवेक्षा-
मासुः कायं त्यजिताः दारुणास्त्रैः ॥

मल्लिनाथः उत्क्रान्तानामिति ॥ पत्राणि वहन्तीति पत्रवाहाः पत्रिणः । आमिषाय आमिषमत्तुम् । `क्रियार्थोपपदस्य च कर्मणि स्थानिनः` (अष्टाध्यायी २.३.१४ ) इति चतुर्थी । उत्क्रान्तानां मृतानामुपरिष्टादध्याकाशमाकाशे । विभक्त्यर्थेऽव्ययीभावः । बभ्रमुः भ्रेमुः । `वा जॄभ्रमुत्रसाम्` (अष्टाध्यायी ६.४.१२४ ) इति विकल्पादेत्वाभ्यासलोपाभावः । अत्रोत्प्रेक्ष्यते-दारुणास्त्रैर्घोरास्त्रैः कायं त्याजिता विसर्जिताः । त्यजेण्र्यन्ताद्विकर्मकात्कर्मणि क्तः । `ण्यन्ते कर्तुश्च कर्मणः` इति वचनात् । मूर्ता मूर्तिमन्तः प्राणा अद्येदानीमपि कायमवेक्षामासुः पूर्वाभिमानात्पुनः कायप्रवेशापेक्षिणो मूर्ताः प्राणा एव नूनमाराभ्द्रमन्तीत्युत्प्रेक्षार्थः । `इजादेश्च गुरुमतोऽनृच्छः` (अष्टाध्यायी ३.१.३६ ) इत्याम्प्रत्ययः `कृञ्चानुप्रयुज्यते लिटि` (अष्टाध्यायी ३.१.४० ) इत्यस्तेरनुप्रयोगः `आम्प्रत्ययवत्-` (अष्टाध्यायी १.३.६३ ) इत्यत्र कृञ एवेति नियमादस्तेर्नात्मनेपदम्
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
त्क्रा न्ता ना मा मि षा यो रि ष्टा
ध्या का शं भ्रु मुः त्र वा हाः
मू र्ताः प्रा णाः नू द्या प्य वे क्षा
मा सुः का यं त्य जि ताः दा रु णा स्त्रैः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.