सान्द्रत्वक्कास्तल्पलाश्लिष्टकक्षा
आङ्गीं शोभामाप्नुवन्तश्चतुर्थीम् ।
कल्पस्यान्ते मारुतेनोपनुन्ना-
श्चेलुश्चण्डं गण्डशैला इवेभाः ॥

मल्लिनाथः सान्द्रेति ॥ सान्द्रत्वकाः सान्द्रवर्माणः । शैषिकः कप्प्रत्ययः । तल्पलाः पृष्ठवंशास्तेषु श्लिष्टाः कक्षाः मध्यबद्धवरत्रा येषां ते । `दूष्या कक्षा वरत्रा स्यात्` इत्यमरः । गजानां विंशत्युत्तरशतायुषां द्वादश दशा भवन्ति तत्र चतुर्दशारू. ढाप्रौढशोभा । तदेवाह -अथ चतुर्थीमाङ्गीं शारीरीं शोभामाप्नुवन्तः । चत्वारिंशद्वर्षदेश्या इत्यर्थः । इभा गजाः कल्पस्यान्ते मारुतेनोपजुन्नाः प्रलयमारुतप्रेरिताः गण्डशैलाः स्थूलोपला इव चण्डं तीव्रं चेलुः प्रतस्थिर इत्युपमा
छन्दः शालिनी [११: मततगग]
छन्दोविश्लेषणम्
१० ११
सा न्द्र त्व क्का स्त ल्प ला श्लि ष्ट क्षा
ङ्गीं शो भा मा प्नु न्त श्च तु र्थीम्
ल्प स्या न्ते मा रु ते नो नु न्ना
श्चे लु श्च ण्डं ण्ड शै ला वे भाः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.