भिन्नानस्त्रैर्मोहभाजोऽभिजाता-
न्हन्तुं लोलं वारयन्तः स्ववर्गम् ।
जीवग्राहं ग्राहयामासुरन्ये
योग्येनार्थाः कस्य न स्याज्जनेन ॥

मल्लिनाथः भिन्नानिति ॥ अन्ये वीरा अर्भिन्नान्विदारितान् अत एव मोहभाजो मूर्छाभाजो मूर्छागतानभिजातान्कुलीनान् । `अभिजातः स्थितौ न्याये कुलीनप्राप्तयोरपि` इति विश्वः । हन्तुं लोलमुत्सुकं स्ववर्ग वारयन्तः जीवं गृहीत्वा जीवग्राहं ग्राहयामासुः। जीवमेव ग्राहयामासुरित्यर्थः । `समूलाकृतजीवेषु हन्कृअग्रहः` (अष्टाध्यायी ३.४.३६ ) इति णमुल्प्रत्ययः । कषादित्वादनुप्रयोगः । जीवग्रहणप्रयोजनमर्थान्तरन्यासेनाह-तथा हि,-योग्येन जनेन हेतुना कस्य पुंसोऽर्थः कीर्त्यादिप्रयोजनं न स्यात् । स्यादेव सर्वस्यापीत्यर्थः । अतो वीराणां रणेष्वप्यतिपरिक्षतरक्षणमेव श्रेयः । `नार्तं नातिपरिक्षतम्` (मनु० ७।९३) इति हनननिषेधादिति भावः
छन्दः शालिनी [११: मततगग]
छन्दोविश्लेषणम्
१० ११
भि न्ना स्त्रै र्मो भा जो ऽभि जा ता
न्ह न्तुं लो लं वा न्तः स्व र्गम्
जी ग्रा हं ग्रा या मा सु न्ये
यो ग्ये ना र्थाः स्य स्या ज्ज ने
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.