भग्नैर्दण्डैरातपत्राणि भूमौ
पर्यस्तानि प्रौढचन्द्रद्युतीनि ।
आहाराय प्रेतराजस्य रौप्य-
स्थालानीव स्थापितानि स्म भान्ति ॥

मल्लिनाथः भग्नैरिति ॥ भग्नैर्दण्डैहेतुना । भग्नदण्डत्वादिति भावः । भूमौ पर्यस्तान्युत्तानपतितानि । प्रौढचन्द्रद्युतीनि पूर्णेन्दुप्रभाण्यातपत्राणि । श्वेतच्छत्राणीत्यर्थः । प्रेतराजस्यान्तकस्याहाराय भोजनाय स्थापितानि विहितानि रौप्यस्थालानि राजतभाजनानीव भान्ति स्मेत्युत्प्रेक्षा
छन्दः शालिनी [११: मततगग]
छन्दोविश्लेषणम्
१० ११
ग्नै र्द ण्डै रा त्रा णि भू मौ
र्य स्ता नि प्रौ न्द्र द्यु ती नि
हा रा प्रे रा स्य रौ प्य
स्था ला नी स्था पि ता नि स्म भा न्ति
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.