भिन्नोरस्कौशत्रुणाकृष्य दूरादासन्नत्वात्कौचिदेकेषेणैव । अन्योऽन्यावष्टम्भसामर्थ्ययोगार्ध्वावेव स्वर्गतावप्यभूताम् ॥
भिन्नोरस्कौशत्रुणाकृष्य दूरादासन्नत्वात्कौचिदेकेषेणैव । अन्योऽन्यावष्टम्भसामर्थ्ययोगार्ध्वावेव स्वर्गतावप्यभूताम् ॥
मल्लिनाथः
भिन्नोरस्काविति ॥ शत्रुणा दूरादाकृष्य आसन्नत्वात्तयोरित्यर्थः । संनिकृष्टत्वादेकेषुणैव भिन्नोरस्कौ विदारितवक्षसौ कौचिद्वीरावन्योन्यावष्टम्भ एव सामर्थ्यं तस्य योगात्स्वभावादूर्ध्वावेव ऊर्ध्वं तिष्ठन्तावेव स्वर्गतावपि मृतावभूताम् । अपिश्चार्थः । तत्र मृतयोरूर्ध्वावस्थानासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.