स्वर्गेवासं कारयन्त्या चिराय
प्रत्यग्रत्वं प्रत्यहं धारयन्त्या ।
कश्चिद्भेजे दिव्यनार्या परस्मिं-
ल्लोके लोकं प्रीणयन्त्येह कीर्त्या ॥

मल्लिनाथः स्वर्गवासमिति ॥ कश्चिद्वीरश्चिराय चिरकालं स्वर्गेवासम् । `शयवासवासिष्वकालात्` (अष्टाध्यायी ६.३.१८ ) इति विकल्पादलुक् । कारयन्त्या अनुभावयन्त्या अहन्यहनि प्रत्यहम् । `नपुंसकादन्यतरस्याम्` (अष्टाध्यायी ५.४.१०९ ) इत्यव्ययीभावे समासान्तष्टच्प्रत्ययः । `अव्ययानां भमात्रे टिलोपः` (वा०) इत्युक्तम् । प्रत्यग्रत्वं नूतनत्वं धारयन्त्या । परप्रेमास्पदत्वादिति भावः । लोकं प्रीणयन्त्या अद्भुतत्वं प्रापयन्त्या । प्रीञो ण्यन्ताल्लटः शतरि ङीप् `धूञ्प्रीञोर्नुग्वक्तव्यः` (वा०) इति नुगागमः । दिव्यनार्या, परस्मिंल्लोके इह लोके कीर्त्या च भेजे प्राप्तः । भजेः कर्मणि लिट् । रणमरणाल्लोकद्वयमपि जिगायेत्यर्थः । अत्र दिव्याङ्गनाकीर्त्योः प्रकृतयोरेव तुल्यधमसंबन्धात्केवलप्रकृतास्पदा तुल्ययोगिता
छन्दः शालिनी [११: मततगग]
छन्दोविश्लेषणम्
१० ११
स्व र्गे वा सं का न्त्या चि रा
प्र त्य ग्र त्वं प्र त्य हं धा न्त्या
श्चि द्भे जे दि व्य ना र्या स्मिं
ल्लो के लो कं प्री न्त्ये की र्त्या
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.