Loading data... On slow networks this could take a few minutes.
100%

गत्वा नूनं वैबुधं सद्म रम्यं
मूच्छाभाजामाजगामान्तरात्मा ।
भूयो दृष्टप्रत्ययाः प्राप्तसंज्ञाः
साधीयस्ते यद्रणायाद्रियन्ते ॥

मल्लिनाथः गत्वेति ॥ मूर्छाभाजामन्तरात्मा जीवः रम्यं वैबुधं सद्म दिव्यभवनं गत्वा आजगाम मूर्छासमये सुरलोकरामणीयकं दृष्ट्वा आजगाम । नूनमुत्प्रेक्षायाम् । कुतः ।यद्यस्मात्प्राप्तसंज्ञा लब्धबोधाः सन्तः दृष्टप्रत्ययाः दृढविश्वासाः भूयः पुनरपि साधीयो गा(बा)ढतरम् । गा(बा) ढादीयसुनि `अन्तिकबाढयोर्नेदसाधौ` (अष्टाध्यायी ५.३.६३ ) इति साधादेशः । रणाय रणं कर्तुमाद्रियन्ते । उत्सेहिर इत्यर्थः । कर्तरि लट् श्यन्प्रत्ययः । कथंचिदुज्जीवितानां पुनर्मृत्युप्राप्तिः श्रेयोदर्शनहेतुकेति भावः
छन्दः शालिनी [११: मततगग]
छन्दोविश्लेषणम्
१० ११
त्वा नू नं वै बु धं द्म म्यं
मू च्छा भा जा मा गा मा न्त रा त्मा
भू यो दृ ष्ट प्र त्य याः प्रा प्त सं ज्ञाः
सा धी स्ते द्र णा या द्रि न्ते
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.