Loading data... On slow networks this could take a few minutes.
100%

त्यक्तप्राणं संयुगे हस्तिनीस्था
वीक्ष्य प्रेम्णा तत्क्षणादुद्गतासु ।
प्राप्याखण्डं देवभूयं सतीत्वा-
दाशिश्लेष स्वैव कञ्चित्पुरन्ध्री ॥

मल्लिनाथः त्यक्तेति ॥ संयुगे युद्धे त्यक्तप्राणं कंचिद्वीरं हस्तिन्यां तिष्ठतीति हस्तिनीस्था करिणीमारूढा सती वीक्ष्य प्रेम्णा तत्क्षणादुद्गतासुर्गतप्राणा स्वैव पुरंध्री स्वभायैव सतीत्वात्पतिव्रतात्वादखण्डमक्षयं देवभूयं देवत्वम् । `भुवो भावे` (३।१। १०७) इति क्यप् । प्राप्याशिश्लेष । स्त्रीणां पातिव्रत्यमेव पतिसालोक्यनिदानं नाग्निप्रवेशादिकमिति भावः । अत्र सतीत्वस्य विशेषणगत्या देवभूयहेतुत्वानुक्तेर्न काव्यलिङ्गम् । अतिशयोक्त्यादिकं तु यथासंभवमूह्यम्
छन्दः शालिनी [११: मततगग]
छन्दोविश्लेषणम्
१० ११
त्य क्त प्रा णं सं यु गे स्ति नी स्था
वी क्ष्य प्रे म्णा त्क्ष णा दु द्ग ता सु
प्रा प्या ण्डं दे भू यं ती त्वा
दा शि श्ले स्वै ञ्चि त्पु न्ध्री
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.