Loading data... On slow networks this could take a few minutes.
100%

वृत्तं युद्धे शूरमाश्लिष्य काचि-
द्रन्तुं तूर्णं मेरुकुञ्जं जगाम ।
त्यक्त्वा नाग्नौ देहमेति स्म याव-
त्पत्नी सद्यस्तद्वियोगासमर्था ॥

मल्लिनाथः वृत्तमिति ॥ काचिदमरनारी युद्धे वृत्तं मृतम् । `वृत्तोऽतीते दृढे ख्याते वर्तुलेऽपि वृते मृते` इति विश्वः । शूरमाश्लिष्य रन्तुं तूर्णं मेरोः कुञ्जं गह्वरं जगाम । यावत्तद्वियोगासमर्था तद्विरहासहा पत्नी सद्योऽग्नौ देहं त्यक्त्वा नैति स्म नाजगाम । अत्र मेरुकुञ्जासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः
छन्दः शालिनी [११: मततगग]
छन्दोविश्लेषणम्
१० ११
वृ त्तं यु द्धे शू मा श्लि ष्य का चि
द्र न्तुं तू र्णं मे रु कु ञ्जं गा
त्य क्त्वा ना ग्नौ दे मे ति स्म या
त्प त्नी द्य स्त द्वि यो गा र्था
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.