लूनग्रीवात्सायकेनापरस्य
द्यामत्युच्चैराननादुत्पतिष्णोः ।
त्रेसे मुग्धैः सैंहिकेयानुकारा-
द्रौद्राकारादप्सरोवक्त्रचन्द्रैः ॥

मल्लिनाथः लूनग्रीवादिति ॥ अपरस्य सायकेन लूनग्रीवाच्छिन्नकण्ठात् अत एव द्यामाकाशं प्रति आशु उच्चैरुत्पतिष्णोरुत्पतनशीलात् । `अलंकृञ्-` (अष्टाध्यायी ३.२.१३६ ) इत्यादिना इष्णुच्प्रत्ययः । अत एव सिंहिकाया अपत्यं पुमान् सैंहिकेयो राहुः । `तमस्तु राहुः स्वर्भानुः सैंहिकेयो विधुंतुदः` इत्यमरः । `स्त्रीभ्यो ढक्` (अष्टाध्यायी ४.१.१२० ) । तमनुकरोतीति तदनुकारात् । तत्सदृशादित्यर्थः । कर्मण्यण्प्रत्ययः । रौद्राकाराद्भीषणाकृतेरस्य वीरस्य आननान्मुग्धैः सुन्दरैरप्सरसां वक्रैरेव चन्द्रैस्त्रेसे त्रस्तम् । भावे लिट् । अत्र राहुहेतुकत्रासस्य चन्द्र एव संभवाद्वक्त्रचन्द्रैरिति रूपकं सिद्धम् । तस्य सैहिकेयानुकारादिति स्पष्टोपमापेक्षत्वात्संकरः
छन्दः शालिनी [११: मततगग]
छन्दोविश्लेषणम्
१० ११
लू ग्री वा त्सा के ना स्य
द्या त्यु च्चै रा ना दु त्प ति ष्णोः
त्रे से मु ग्धैः सैं हि के या नु का रा
द्रौ द्रा का रा प्स रो क्त्र न्द्रैः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.