Loading data... On slow networks this could take a few minutes.
100%

वर्ध्राबद्धा धौरितेन प्रयाता-
मश्वीयानामुच्चकैरुच्चलन्तः ।
रौक्मा रेजुः स्थासका मूर्तिभाजो
दर्पस्येव व्याप्तदेहस्यशेषाः ॥

मल्लिनाथः वर्धेति ॥ धौरितेन धौरिताख्येन गतिविशेषेण प्रयातां धावताम् । यातेर्लट: शत्रादेशः । अश्वीयानामश्वसमूहानाम् । `केशाश्वाभ्यां यच्छावन्यतरस्याम्` (अष्टाध्यायी ४.२.४८ ) इति छप्रत्ययः । उच्चकैरुच्चलन्तो गतिवशादूर्ध्वमुत्पतन्तः वर्धन्ते इति वर्ध्राणि पर्याणबन्धनवरत्राः । `वर्ध्रं त्रपुवरत्रयोः` इति विश्वः । `वृधुवधिवपिभ्यो रन्` इति रन्प्रत्ययः । लघूपधगुणो रपरः । तेष्वाबद्धाः स्थापिता रौक्माः सौवर्णाः स्थासकाः बुहृदाकारमण्डलानि व्याप्तदेहस्य सर्वाङ्गीणस्य मूर्तिभाजो मूर्तिभृतः दर्पस्यान्तरस्य तेजसः शेषाः अन्तरमानाद्वहिर्निर्गता अतिरेका इव रेजुरित्युत्प्रेक्षा
छन्दः शालिनी [११: मततगग]
छन्दोविश्लेषणम्
१० ११
र्ध्रा द्धा धौ रि ते प्र या ता
श्वी या ना मु च्च कै रु च्च न्तः
रौ क्मा रे जुः स्था का मू र्ति भा जो
र्प स्ये व्या प्त दे स्य शे षाः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.