पौनः पुन्यादस्रगन्धेन मत्तो
मृद्गन्कोपाल्लोकमायोधनोर्व्यां ।
पादे लग्नमत्र मालामिभेन्द्रः
पाशीकल्पामायतामाचकर्ष ॥

मल्लिनाथः पौनःपुन्यादिति ॥ अत्र आयोधनोार्व्यां युद्धभूमौ पौनःपुन्यात् । पुनःपुनरावृत्तेरित्यर्थः । ब्राह्मणादित्वात्व्यञ्प्रत्ययः । अव्ययानां भमात्रे टिलोपस्य सायंप्रातिकाद्यर्थमुपसंख्यानमिति टिलोपः । अस्रगन्धेन । रक्तगन्धाघ्राणादित्यर्थः । मत्त इभेन्द्रो महागजः कोपाल्लोकं जनं मृद्गन्क्षुन्दन् पादे लग्नामीषदसमाप्तां पाशीकल्पां पाशबन्धनसदृशीम् । `पाशस्त्वश्वादिबन्धनम्` इति विश्वः । `बह्वादिभ्यश्च` (अष्टाध्यायी ४.१.४५ ) इति विकल्पादीकारः । अभाषितपुंस्कत्वात् `घरूप-` (अष्टाध्यायी ६.३.४३ ) इत्यादिना ह्रस्वो न भवति । आयतां दीर्घां मालामाचकर्ष पाशीकल्पेत्यत्र तद्धितगता पूर्णापमा
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
पौ नः पु न्या स्र न्धे त्तो
मृ द्ग न्को पा ल्लो मा यो नो र्व्यां
पा दे ग्न त्र मा ला मि भे न्द्रः
पा शी ल्पा मा ता मा र्ष
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.