Loading data... On slow networks this could take a few minutes.
100%

बाणाक्षिप्तारोहशून्यासनानां
प्रक्रान्तानामन्यसैन्यैग्रहीतुम् ।
संरब्धानां भ्राम्यतामाजिभूमौ
वारी वारैः सस्मरे वारणानाम् ॥

मल्लिनाथः बाणेति ॥ बाणैराक्षिप्ताः पातिताश्वारोहाः सादिनो येभ्यस्तानि अत एव शून्यानि रिक्तान्यासनानि आस्तरणानि येषाम् । अत एवान्यैः सैन्यैः परसैनिकै&#३२; र्ग्रहीतुं प्रक्रान्तानामारब्धानाम् । समन्तादवरुध्यमानानामित्यर्थः । अत एव संरब्धानां क्षुभितानां अत एव आजिभूमौ भ्राम्यतामनवतिष्ठमानानां वारणानां वारैर्वृन्दैः वारी बन्धनस्थानम् । `वारः सूर्यादिदिवसे वारों वरणवृन्दयोः । वारी कटीभबन्धन्योः` इति विश्वः । सस्मरे स्मृता । तद्धर्मयोगादिति भावः । कर्मणि लिट् । अत्र शून्यासनत्वादीनां विशेषणगत्या वारीस्मरणहेतुत्वात्काव्यलिङ्गम्
छन्दः शालिनी [११: मततगग]
छन्दोविश्लेषणम्
१० ११
बा णा क्षि प्ता रो शू न्या ना नां
प्र क्रा न्ता ना न्य सै न्यै ग्र ही तुम्
सं ब्धा नां भ्रा म्य ता मा जि भू मौ
वा री वा रैः स्म रे वा णा नाम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.